Login
Login

RBSE Solution for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

Spread the love

RBSE Solution for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

हिन्दी अनुवाद

पाठ-परिचय – श्रीधरभास्कर वर्णेकर के द्वारा विरचित प्रस्तुत गीत में चुनौतियों को स्वीकार करते हुए आगे बढ़ने का आह्वान किया गया है। इसके प्रणेता राष्ट्रवादी कवि हैं और इस गीत के द्वारा उन्होंने जागरण तथा कर्मठता का सन्देश दिया है। कवि कहता है कि अरे मनुष्य! तू सदैव आगे कदम बढ़ाता चल। तुम्हारे मार्ग में अनेक कठिनाइयाँ आयेंगी, साधनों का अभाव होगा, मार्ग में तीक्ष्ण पत्थर होंगे, तुम्हारे चारों ओर हिंसक पशु होंगे, किन्तु सभी विघ्नों को पार करते हुए तुम निरन्तर आगे बढ़ते रहो। भय को त्यागकर तुम सदैव राष्ट्र से प्रेम करो। अपने लक्ष्य/कर्त्तव्य का चिन्तन करते हुए आगे बढ़ते रहो।

पाठ के पद्यों का अन्वय, कठिन-शब्दार्थ एवं हिन्दी-भावार्थ –

1.चल चल ………………………………….. निधेहि चरणम्॥
गिरिशिखरे ननु ……………………………….. सदैव पुरतो॥

अन्वयः – चल, चल। पुरतः चरणं निधेहि। सदैव पुरतः चरणं निधेहि। ननु निजनिकेतनं गिरिशिखरे (अस्ति)। (अतः) यानं विना एव नगारोहणं (कुरु)। स्वकीयं बलं साधनं भवति। सदैव पुरतः चरणं निधेहि।

कठिन-शब्दार्थ :

पुरतः = आगे।
निधेहि = रखो।
गिरिशिखरे = पर्वत की चोटी पर।
निजनिकेतनम् = अपना निवास।
विनैव (विना + एव) = बिना ही।
नगारोहणम् = पर्वत पर चढ़ना।
हिन्दी भावार्थ – कवि निरन्तर आगे बढ़ने की प्रेरणा देता हुआ कहता है कि चलो, चलो, आगे पैर रखो। हमेशा आगे ही कदम रखो। निश्चय ही पर्वत की चोटी पर अपना निवास है। इसलिए वाहन के बिना ही पर्वत पर चढ़ना है। अपना बल ही साधन होता है। इसलिए हमेशा आगे ही पैर रखो अर्थात् आगे कदम बढ़ाओ।

2. पथि पाषाणा: ……………………………………. सदैव पुरतो।

अन्वयः – पथि विषमाः प्रखराः (च) पाषाणाः (सन्ति)। परितः घोराः हिंस्राः पशवः (सन्ति)। यद्यपि गमनं खलु सुदुष्करम् (अस्ति, तथापि) सदैव पुरतः चरणं निधेहि।

कठिन-शब्दार्थ :

पथि = मार्ग में।
पाषाणाः = पत्थर।
विषमाः = असामान्य।
प्रखराः = तीक्ष्ण, नुकीले।
परितः = चारों ओर।
घोराः = भयङ्कर, भयानक।
हिंस्त्राः = हिंसक।
हिन्दी भावार्थ – कवि जीवन में कठिनाइयों से न घबराकर आगे बढ़ने की प्रेरणा देता हुआ कहता है कि मार्ग में तीक्ष्ण एवं असामान्य (ऊबड़-खाबड़) पत्थर हैं और चारों ओर भयानक हिंसक पशु हैं। यद्यपि (मार्ग में) चलना निश्चय ही अत्यन्त कठिन कार्य है, (फिर भी) हमेशा आगे ही पैर रखो अर्थात् जीवन में निरन्तर आगे बढ़ते रहो।

  1. जहीहि भीति …………………………………सदैव पुरतो ॥

अन्वयः – भीतिं जहीहि। शक्तिं भज, भज। तथा राष्ट्र अनुरक्तिं विधेहि। ध्येय-स्मरणं सततं कुरु-कुरु। सदैव पुरतः चरणं निधेहि।

कठिन-शब्दार्थ :

भीतिम् = भय को।
जहीहि = छोड़ो/छोड़ दो।
भज = भजो, जपो।
अनुरक्तिम् = प्रेम, स्नेह।
विधेहि = करो।
हिन्दी भावार्थ – कवि भय को त्यागने, राष्ट्र प्रेम रखने और निरन्तर जीवन में आगे बढ़ने की प्रेरणा देता हुआ कहता है कि भय (डर) को छोड़ो, शक्ति का सेवन करो तथा राष्ट्र में प्रेम रखो। निरन्तर अपने उद्देश्य (लक्ष्य) का स्मरण करो। हमेशा आगे ही पैर रखो अर्थात् आगे कदम बढ़ाओ।

पाठ्यपुस्तक प्रश्न और उत्तर

1. पाठे दत्तं गीतं सस्वरं गायत।
(पाठ में दिए गए गीत को स्वर के साथ गाओ)

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) स्वकीयं साधनं किं भवति?
उत्तराणि:
बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तराणि:
पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तराणि:
ध्येयस्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तराणि:
श्रीधरभास्कर वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तराणि:
राष्ट्रवादी।

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से क्रियापदों का चयन करके रिक्तस्थानों की पूर्ति करो)

मञ्जूषा- निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरतः चरणं निधेहि।

(क) त्वं विद्यालयं …………… |
उत्तराणि:
त्वं विद्यालयं चल।

(ख) राष्ट्रे अनुरक्तिं …………… |
उत्तराणि:
राष्ट्रे अनुरक्ति विधेहि।

(ग) मह्यं जलं …………… |
उत्तराणि:
मह्यं जलं देहि।

(घ) मूढ ! …………… धनागमतृष्णाम्।
उत्तराणि:
मूढ ! जहीहि धनागमतृष्णाम् ।

(ङ) …………………. गोविन्दम्।
उत्तराणि:
भज गोविन्दम्।

(च) सततं ध्येयस्मरणं…………… |
उत्तराणि:
सततं ध्येयस्मरणं कुरु।

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत
(उचित कथनों के सामने ‘आम्’ तथा अनुचित कथनों के सामने ‘न’ ऐसा लिखो)


उत्तराणि:

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत
(वाक्य रचना के द्वारा अर्थ भेद स्पष्ट करो)

परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तराणि:
(क) परितः (चारों ओर) – ग्रामं परितः जलम् अस्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः उद्यानम् अस्ति।

(ख) नगः (पर्वत) – हिमालयः महान् नगः अस्ति।
नागः (सर्प) – अत्र एकः नागः तिष्ठति।

(ग) आरोहणम् (चढ़ना) – पर्वतारोहणं दुष्करम् अस्ति।
अवरोहणम् (उतरना) – पर्वताद् अवरोहणं सुकरम् अस्ति।

(घ) विषमाः (असमान) – मार्गे विषमाः पाषाणाः तिष्ठन्ति/सन्ति।
समाः (समान) – राजमार्गाः प्रायः समाः भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों का चयन करके रिक्तस्थानों को पूरा करो)

मञ्जूषा- एव खलु तथा परितः पुरतः सदा विना

(क) विद्यालयस्य ………………………………. एकम् उद्यानम् अस्ति।
उत्तराणि:
विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् …………. जयते।
उत्तराणि:
सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् ……………………
उत्तराणि:
किं भवान् स्नानं कृतवान् खलु?

(घ) सः यथा चिन्तयति ……………. आचरति।
उत्तराणि:
सः यथा चिन्तयति तथा आचरति ।

(ङ) ग्रामं ……………. वृक्षाः सन्ति।
उत्तराणि:
ग्रामं परितः वृक्षाः सन्ति ।

(च) विद्यां … जीवनं वृथा।
उत्तराणि:
विद्यां विना जीवनं वृथा।

(छ)…………. भगवन्तं भज।
उत्तराणि:
सदा भगवन्तं भज।

6. विलोमपदानि योजयत
(विलोम पदों का मिलान करो)

पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तराणि:
शब्दः – विलोमशब्दः
पुरतः – पृष्ठतः।
स्वकीयम् – परकीयम्।
भीतिः – साहसः।
अनुरक्तिः – विरक्तिः ।
गमनम् – आगमनम्।

7. (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत
(लट् लकार के पदों से लोट् और विधिलिङ् लकार के पदों का निर्माण करो)


उत्तराणि:

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत
(निम्नलिखित पदों में निर्देशानुसार परिवर्तन करो)

यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् – (सप्तमी-एकवचने) – ………………
राष्ट्र (चतुर्थी-एकवचने) – ………………
पाषाण (सप्तमी-एकवचने) – ………………
यान (द्वितीया-बहुवचने) – ………………
शक्ति (प्रथमा-एकवचने) – ………………
पशु (सप्तमी-बहुवचने) – ………………
उत्तराणि:
(क) पथि/पथिनि
(ख) राष्ट्राय
(घ) यानानि
(ङ) शक्तिः
(ग) पाषाणे
(च) पशुषु।

अतिरिक्त महत्वपूर्ण प्रश्न और उत्तर

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥

I. एकपदेन उत्तरत

(i) कां जहीहि?
उत्तराणि:
भीतिम्।

(ii) किम् सदैव पुरतः निधेहि?
उत्तराणि:
चरणम्।

II. पूर्णवाक्येन उत्तरत

(i) कस्मिन् अनुरक्तिं विधेहि?
उत्तराणि:
राष्ट्रे अनुरक्तिं विधेहि।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?
(क) सद + एव
(ख) सदा + एव
(ग) सदा + ऐव
(घ) सद् + एव
उत्तराणि:
(घ) सद् + एव

(ii) ‘राष्ट्र’ इत्यस्मिन् पदे का विभक्तिः ?
(क) द्वितीया
(ख) चतुर्थी
(ग) सप्तमी
(घ) प्रथमा
उत्तराणि:
(ग) सप्तमी

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।

भावः-……….. शिखरे स्वकीयं ……….. भवतु । ……… विना एव ……….. आरोहणं करोतु।
उत्तराणि:
पर्वतानां शिखरे स्वकीयं गृहं भवतु। यानं विना एव पर्वतेषु आरोहणं करोतु ।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सदैव पुरतो निधेहि चरणम्।
भावार्थाः
(i) सदैव चरणं प्रक्षालय।
(ii) सदैव चरणं न निधेहि।
(iii) सदैव अग्रे गच्छतु।
उत्तराणि:
(iii) सदैव अग्रे गच्छतु।

अधोलिखितेषु शुद्धकथनं (✓ ) चिह्नन, अशुद्धकथनं ( ✗) चिह्नन अङ्कयत

(क) पथि पाषाणा विषमाः प्रखराः।
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति।
(ii) मागे विपणः पाषाणाः तीव्राः भवन्ति।
उत्तराणि:
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति। (✓)
(ii) मार्गे विषमाः पाषाणाः तीव्राः भवन्ति। (✗)

अधोलिखितस्य श्लोकस्य अन्वयं लिखत –

पथि पाषाणा विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
उत्तराणि:
अन्वयः-पथि विषमाः प्रखराः पाषाणाः। परितः घोराः हिंस्राः पशवः। यद्यपि गमनं खलु सुदुष्करम्।।

अधोलिखितस्य श्लोकस्य अन्वयं रिक्तस्थानपूर्तिद्वारा लिखत –

(क) कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्।

अन्वयः-ध्येय ………………. सततं ………। ……… पुरतः ……………… निधेहि।
उत्तराणि:
ध्येय स्मरणं सततं कुरु कुरु । सदैव पुरतः चरणं निधेहि।

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) भीतिं जहीहि।
(क) किम्
(ख) काम्
(ग) कम्
(घ) का
उत्तराणि:
काम् जहीहि?

(ii) पथि पाषाणाः सन्ति।
(क) कस्मिन्
(ख) कुतः
(ग) कुत्र
(घ) कति
उत्तराणि:
कुत्र पाषाणाः सन्ति?

(iii) पुरतः चरणं निधेहि।
(क) कानि
(ख) किम्
(ग) के
(घ) कम्
उत्तराणि:
पुरतः किम् निधेहि?

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

पथि, परितः, घोरः
उत्तराणि:
(i) पथि = मार्गे।
पथि एकः सर्पः तिष्ठति।

(ii) परितः = सर्वतः।
ग्रामं परितः जलं वर्तते।

(iii) घोरः = भयानकः।
वने घोरः व्याघ्रः वसति।

अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) पथि – अवश्यम्
(ii) घोरः – पर्वतः
(iii) प्रखरः – भयम्
(iv) भीतिः – मार्गे
(v) नगः – भयङ्करः
(vi) ननु – तीक्ष्णः
उत्तराणि:
(i) पथि – मार्गे
(ii) घोरः – भयङ्करः
(iii) प्रखरः – तीक्ष्णः
(iv) भीतिः – भयम्
(v) नगः –
(vi) ननु – अवश्यम्

1. अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –

पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।

(i) एकपदेन उत्तरत
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
(क) पथि
(ख) पथिन्
(ग) पथिने
(घ) पथिनः
उत्तराणि:
(क) पथि

(ii) पूर्णवाक्येन उत्तरत –
गमनं दुष्करन् सति किं करणीयम्?
उत्तराणि:
गमनं सुदुष्करं सति सदैव पुरतः चरणं निधेहि।

(iii) ‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?
(क) पशु
(ख) पाषाणाः
(ग) जीवाः
(घ) पशवः
उत्तराणि:
(घ) पशवः

(iv) ‘अग्रे’ इति अर्थे श्लोके किं पदं प्रयुक्तं?
(क) यद्यपि
(ख) पुरतः
(ग) खलु
(घ) सदैव
उत्तराणि
(ख) पुरतः

2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

(i) राष्ट्रे अनुरक्तिं विधेहि।
(क) किं
(ख) के
(ग) कस्मिन्
(घ) का
उत्तराणि:
(ग) कस्मिन्

(ii) निजनिकेतनं गिरिशिखरे स्यात्।
(क) कुत्र
(ख) के
(ग) किं
(घ) कः
उत्तराणि:
(क) कुत्र

(iii) गमनं सुदुष्करं अस्ति।
(क) किं
(ख) कम्
(ग) कीदृशं
(घ) कीदृशः
उत्तराणि:
(ग) कीदृशं।

3. ‘विधेहि’ अस्मिन् क्रियापदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लोट
(घ) विधिलिङ्
उत्तराणि:
(ग) लोट

4. ‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?
(क) प्रखरः
(ख) नागः
(ग) नगः
(घ) पुरतः
उत्तराणि:
(ग) नगः

5. ‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
(क) कुरु
(ख) निधेहि
(ग) विधेहि
(घ) जहीहि
उत्तराणि:
(घ) जहीहि

6. निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
(क) सततं
(ख) भज
(ग) परितः
(घ) सदैव
उत्तराणि:
(ख) भज

7. ‘पथि’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) द्वितीया
(ग) प्रथमा
(घ) सप्तमी
उत्तराणि:
(घ) सप्तमी

8. किं क्रियापदं लोट्लकारस्य न वर्तते?
(क) भज
(ख) कुरु
(ग) विधेहि
(घ) त्यजति
उत्तराणि:
(घ) त्यजति

9. ‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?
(क) विषमाः
(ख) हिंस्राः
(ग) प्रखराः
(घ) घोराः
उत्तराणि:
(ख) हिंस्राः

10. ‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
(क) चलन्तु
(ख) चलेत्
(ग) चलेयुः
(घ) चलेताम्
उत्तराणि:
(ख) चलेत्


Spread the love

Leave a Comment


error: Content is protected !!